Showing posts with label GANESH STROTRAM. Show all posts
Showing posts with label GANESH STROTRAM. Show all posts

Saturday, 19 September 2015

।।संकटनाशन गणेश स्तोत्र।।


।।संकटनाशन गणेश स्तोत्र।।


प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम।
भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये।।1।।
प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम।
तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम।।2।।
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् ।।3।।
नवमं भालचन्द्रं च दशमं तु विनायकम।
एकादशं गणपतिं द्वादशं तु गजाननम।।4।।
द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर:।
न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो।।5।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।6।।
जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशय: ।।7।।
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:।।8।।
॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम् ॥


For Free Download Shree Sankat Nashan Ganesh Strotra






Thursday, 17 September 2015

।। गणपति स्तोत्रम् ।।

।। गणपति स्तोत्रम् ।।

विघ्नेश्वराय वरदाय सुरप्रियाय , लम्बोदराय सकलाय जगद्विताय ।
नागाननाय श्रुति यज्ञ विभूषिताय , गौरीसुताय गणनाथ नमोस्तुते ।।

भक्तार्तिनाशनपराय गणेश्वराय , सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय , भक्तप्रसन्न वरदाय नमोनमस्ते ।।

नमस्ते ब्रह्‌मरूपाय विष्णुरूपायते नमः , नमस्ते रूद्ररूपाय करि रूपायते नमः ।
विश्वरूपस्य रूपाय नमस्ते ब्रह्‌मचारिणे , भक्तप्रियाय देवाय नमस्तुभ्यं विनायकः ।।

लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय, निर्विध्नं में कुरू सर्व कार्येषु सर्वदा ।
त्वां विन शत्रु दलनेति च सुंदरेति , भक्तप्रियेति शुभदेति फलप्रदेति ।।

विद्याप्रदेत्यघहरेति च ये स्तुवंति , तेभ्यो गणेश वरदो भव नित्यमेवि ।
अनया पूजया सांगाय सपरिवाराय , श्री गणपतिम समर्पयामि नमः ।।

।। जय गजानन महेश ।।


Wednesday, 16 September 2015

श्री सिद्धिविनायक स्तोत्रम् ॥

श्री सिद्धिविनायक स्तोत्रम् ॥





जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् ।
स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥


प्रभुं मङ्गलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः ।
यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥


विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् ।
त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥


त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव ।
देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४॥


कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव ।
विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५॥


गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम ।
त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६॥


त्वमेव माता च पिता देवस्त्वं च ममाव्ययः ।
अनाथनाथस्त्वं देहि विभो मे वाञ्छितं फलम् ॥ ७॥


लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः ।
हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबान्धवः ॥ ८॥


नागाननो भक्तपालो वरदस्त्वं दयां कुरु ।
सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९॥


विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् ।
दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १०॥


नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपम् ।
नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११॥


नमनं शम्भुतनयं नमनं करुणालयम् ।
नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२॥


नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः ।
नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥


नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच ।
भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४॥


अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव ।
दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५॥


बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः ।
पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६॥


दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः ।
शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७॥


इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः ।
गणेशकृपया ज्ञानसिध्धिं स लभते धनम् ॥ १८॥


पठेद्यः सिद्धिदं स्तोत्रं देवं सम्पूज्य भक्तिमान् ।
कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९॥


पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकम् ।
षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचःगणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २०॥

इति श्री सिद्धिविनायक स्तोत्रम् ।